|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.105. अध्यायः 105
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति राज्ञां शत्रुजयोपायप्रतिपादककौसल्यकालकवृक्षीयसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
मुनिरुवाच। 12-105-0x(5616)(68898)
अथ चेत्पौरुषं किंचित्क्षत्रियात्मनि पश्यसि।
ब्रवीम्यहं तु ते नीतिं राज्यस्य प्रतिपत्तये॥ 12-105-1(68899)
तां चच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि।
शृणु सर्वमशेषेण यत्ते वक्ष्यामि तत्त्वतः॥ 12-105-2(68900)
आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि।
राज्यं वा राज्यमन्त्रं वा महतीं वा पुनः श्रियम्।
यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते॥ 12-105-3(68901)
राजोवाच। 12-105-4x(5617)
ब्रवीतु भगवान्नीतिमभिपन्नोऽस्म्यधीहि भो।
अमोघ एव मेऽद्यास्तु त्वया सह समागमः॥ 12-105-4(68902)
मुनिरुवाच। 12-105-5x(5618)
हित्वा मानं च दम्भं च क्रोधं हर्ष भयं तथा।
प्रत्यमित्राणि सेवस्व प्रणिपत्य कृताञ्जलिः।
तमुत्तमेन शौचेन कर्मणा चावधारय॥ 12-105-5(68903)
दातुमर्हति ते वित्तं वैदेहः सत्यविक्रमः।
प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि॥ 12-105-6(68904)
ततः सहायान्सोत्साहाँल्लप्स्यसेऽव्यसनाञ्शुचीन्।
वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः।
अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः॥ 12-105-7(68905)
तेनैव त्वं धृतिमता श्रीमता चापि सत्कृतः।
प्रमाणं सर्वभूतेषु गत्वा च ग्रहणं महत्॥ 12-105-8(68906)
ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम्।
सान्त्वेन भेदयित्वाऽरीन्बिल्वं बिल्वेन शातय।
परैर्वा संविदं कृत्वा बलमप्यस्य घातय॥ 12-105-9(68907)
अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च।
शय्यासनानि यानानि महार्हाणि गृहाणि च॥ 12-105-10(68908)
पक्षिणो मृगजातानि रसगन्धाः फलानि च।
तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः॥ 12-105-11(68909)
यद्येवं प्रतिषेद्धव्यो यद्युपेक्षणमर्हति।
`सदैव राजशार्दूल विदुषा हितमिच्छता।'
न जातु विवृतः कार्यः शत्रुः सुनयमिच्छता॥ 12-105-12(68910)
वसस्व पुरमामित्रं विषये मित्रसंमतः।
भजस्व श्वेतकाकीयैर्मित्रधर्ममनथैकैः॥ 12-105-13(68911)
आरम्भांश्चास्य महतो दुष्करान्संप्रयोजय।
नदीबन्धविभेदांश्च बलवद्भिर्विरुध्यताम्॥ 12-105-14(68912)
उद्यानानि महार्हाणि शयनान्यासनानि च।
प्रीतिभोगमुखेनैव कोशमस्य विरोचय॥ 12-105-15(68913)
यज्ञदाने प्रशंसास्मै ब्राह्मणाननुवर्तय।
ते त्वा प्रियं करिष्यन्ति तच्छेत्स्यन्ति वृका इव॥ 12-105-16(68914)
असंशयं पुण्यशीलाः प्राप्नोति परमां गतिम्।
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति शाश्वतम्॥ 12-105-17(68915)
कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति।
उभयत्र प्रयुक्तस्य धर्मे चाधर्म एव च॥ 12-105-18(68916)
फलार्थमूलमुच्छिद्यात्तेन नन्दन्ति शत्रवः।
न चास्मै मानुषं कर्म दैवप्रस्योपवर्णय॥ 12-105-19(68917)
असंशयं दैवपरः क्षिप्रमेव विनश्यति।
याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम्॥ 12-105-20(68918)
ततो गच्छत्यसिद्धार्थः पीडयानो महाजनम्।
त्यागधर्मविदं पुण्यं कंचिदस्योपवर्णय॥ 12-105-21(68919)
अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम्।
सिद्धेनौषधियोगेन सर्वशत्रुविनाशिना।
गजानश्वान्मनुष्यांश्च कृतकैरुपघातय॥ 12-105-22(68920)
एते चान्ये च बहवो दम्भयोगाः सुचिन्तिताः।
शक्या विपहता कर्तुं न क्लीबेन नृपात्मज॥ ॥ 12-105-23(68921)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चाधिकशततमोऽध्यायः॥ 105॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-105-4 अभिपन्नोऽस्मि पौरुषेणेति शेषः॥ 12-105-6 प्रमाणं विश्वासम्॥ 12-105-7 स्वशास्त्रे नीतिशास्त्रे॥ 12-105-8 ग्रहणं आदरम्॥ 12-105-13 श्वेतकाकीयैः श्वा च एतश्च काकश्च तेषामिति धर्माः। क्रमेण नित्यं जागरूकत्वभयचकितत्वपरेङ्गितज्ञत्वानि तैः उपायैः मित्रधर्मं भजस्व। श्वेत इत्यत्रोमाडोश्चेति पररूपम्। एतो मृगः॥ 12-105-14 नदीवच्च विरोधांश्चेति झ. पाठः। तत्र आरम्भान्विरोधांश्च महानदीवद्दुस्तरानित्यर्थः॥ 12-105-18 धर्माधर्माभ्यां कोशक्षये सति॥ 12-105-19 फलस्य स्वर्गादेः अर्थस्य जयादेः मूलकारणं कोशः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|